![Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) artwork](https://is3-ssl.mzstatic.com/image/thumb/Podcasts123/v4/f7/f0/9d/f7f09d37-f38b-814a-6d91-891f06ae97cc/mza_6532737873152878887.jpg/100x100bb.jpg)
01-19-20-B
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)
English - January 25, 2017 06:00 - 75.5 MB - ★★★★ - 6 ratingsHinduism Religion & Spirituality bhagavad bhagavat gita geeta geetha sanskrit samskrita bharati usa samskritam Homepage Download Apple Podcasts Google Podcasts Overcast Castro Pocket Casts RSS feed
https://archive.org/download/BhagavadGitaSanskrit/01-19-20-B-SBUSA-BG.mp3 01-19 स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥ 01-20 अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः। प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥ हृषीकेशं तदा वाक्यमिदमाह महीपते। 01-19 स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥ पदच्छेतः सः, घोषः, धार्तराष्ट्राणाम्, हृदायानि, व्यदारयत्। नभः, च, पृथिवीम्, च, एव, तुमुलः, व्यनुनादयन्॥ पदपरिचयः पदम् विवरणम् पदम् विवरणम् […]
https://archive.org/download/BhagavadGitaSanskrit/01-19-20-B-SBUSA-BG.mp3
01-19
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥
01-20
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥
हृषीकेशं तदा वाक्यमिदमाह महीपते।
01-19
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥
पदच्छेतः
सः, घोषः, धार्तराष्ट्राणाम्, हृदायानि, व्यदारयत्।
नभः, च, पृथिवीम्, च, एव, तुमुलः, व्यनुनादयन्॥
पदपरिचयः
पदम्
विवरणम्
पदम्
विवरणम्
सः
तद्-द. पुं. प्र. एक.
घोषः
अ. पुं. प्र. एक.
धार्तराष्ट्राणाम्
अ. पुं. ष. बहु.
हृदायानि
अ. नपुं. द्वि. बहु.
व्यदारयत्
वि + दृ-णिच्. कर्तरि लङ्. प्रपु. एक.
नभः
नभस्-स. नपुं. द्वि. एक.
च
अव्ययम्
पृथिवीम्
ई. स्री. द्वि. एक.
एव
अव्ययम्
तुमुलः
अ. पुं. प्र. एक.
व्यनुनादयन्
व्यनुनादयत्-त. पुं. प्र. एक.
पदार्थः
पदम्
अर्थः
पदम्
अर्थः
सः
स एषः
तुमुलः
धोरः
घोषः
नादः
नभः
आकाशम्
पृथिवीं च
भूमिं च
व्यनुनादयन्
प्रतिध्वनयन्
धार्तराष्ट्राणाम्
कौरवाणाम्
हृदयानि
मनांसि
व्यदारयत्
अखण्डयत्
अन्वयः
सः तुमुलः घोषः नभः पृथिवीं च व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।
आकाङ्क्षा
व्यदारयत्
कः व्यदारयत्?
घोषः व्यदारयत्।
कः घोषः व्यदारयत्?
सः घोषः व्यदारयत्।
सः कीदृशः घोषः व्यदारयत्?
सः तुमुलः घोषः व्यदारयत्।
सः तुमुलः घोषः कानि व्यदारयत्?
सः तुमुलः घोषः हृदयानि व्यदारयत्।
सः तुमुलः घोषः केषां हृदयानि व्यदारयत्?
सः तुमुलः घोषः धार्तराष्ट्राणां हृदयानि व्यदारयत्।
सः तुमुलः घोषः किं कुर्वन् धार्तराष्ट्राणां हृदयानि व्यदारयत्?
सः तुमुलः घोषः व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।
सः तुमुलः घोषः किं व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्?
सः तुमुलः घोषः नभः व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।
सः तुमुलः घोषः नभः पुनश्च कां व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्?
सः तुमुलः घोषः नभः पृथिवीं च व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।
तात्पर्यम्
सर्वेऽपि महावीराः युगपदेव शङ्खान् ध्मातवन्तः इति तदा महान् धोरश्च शब्दः समुत्पन्न्ः। तेन आकाशे भूमौ च प्रतिध्वनिः जातः। तस्य धोषस्य श्रवणेन दुष्टानां कौरवाणां हृदयानि विभिन्नानि इन अभवन्।
व्याकरणम्
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥
सन्धिः
स घोषो
सः + घोषो
विसर्गसन्धिः (लोपः)
घोषो धार्तराष्ट्राणाम्
घोषः + धार्तराष्ट्राणाम्
विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः
धार्तराष्ट्राणां हृदयानि
धार्तराष्ट्राणाम् + हृदयानि
अनुस्वारसन्धिः
नभश्च
नभः + च
विसर्गसन्धिः (सकारः) श्चुत्वम्
पृथिवीं चैव
पृथिवीम् + चैव
अनुस्वारसन्धिः
चैव
च + एव
वृद्धिसन्धिः
तुमुलो व्यनुनादयन्
तुमुलः + व्यनुनादयन्
विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः
तद्धितान्तः
धार्तराष्ट्राणाम्
धृतराष्ट्र + अण् (अपत्यार्थे)। धृतराष्ट्रस्य अपत्यानि पुमांसः।
01-20
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥
हृषीकेशं तदा वाक्यमिदमाह महीपते।
पदच्छेतः
अथ, व्यवस्थितान्, दृष्ट्वा, धार्तराष्ट्रान्, कपिध्वजः।
प्रवृत्ते, शस्त्रसम्पाते, धनुः, उद्यम्य, पाण्डवः॥
हृषीकेशम्, तदा, वाक्यम्, इदम्, आह, महीपते।
पदपरिचयः
पदम्
विवरणम्
पदम्
विवरणम्
अथ
अव्ययम्
व्यवस्थितान्
अ. पुं. द्वि. बहु.
दृष्ट्वा
अव्ययम्
धार्तराष्ट्रान्
अ. पुं. द्वि. बहु.
कपिध्वजः
अ. पुं. प्र. एक.
प्रवृत्ते
अ. पुं. स. एक
शस्त्रसम्पाते
अ. पुं. स. एक
धनुः
धनुष्-ष. नपुं. द्वि. एक.
उद्यम्य
ल्यबन्तम् अव्ययम्
पाण्डवः
अ. पुं. प्र. एक.
हृषीकेशम्
अ. पुं. द्वि. एक.
तदा
अव्ययम्
वाक्यम्
अ. नपुं. द्वि. एक.
इदम्
इदम-म्. नपुं. द्वि. एक.
आह
ब्रुञ्-पर. कर्तरि. प्रपु. एक.
महीपते
इ. पुं. सम्बो. एक.
पदार्थः
पदम्
अर्थः
पदम्
अर्थः
महीपते
हे धृतराष्ट्र!
अथ
ततः
व्यवस्थितान्
उद्युक्तान्
धार्तराष्ट्रान्
कौरवान्
दृष्ट्वा
वीक्ष्य
कपिध्वजः
वानरकेतनः
पाण्डवः
अर्जुनः
शस्त्रसम्पाते
आयुधपाते
प्रवृत्ते
सम्पन्ने
धनुः
चापम्
उद्यम्य
उद्धृत्य
तदा
तस्मिन् समये
हृषीकेशम्
कृष्णम्
इदम्
एतत्
वाक्यम्
वचनम्
आह
वदति
अन्वयः
हे महीपते! अथ व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कपिद्वजः पाण्डवः शस्त्रसम्पाते प्रवृते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह।
आकाङ्क्षा
आह
कः आह?
पाण्डवः आह।
कीदृशः पाण्डवः आह?
कपिद्वजः पाण्डवः आह।
कपिद्वजः पाण्डवः किम् आह?
कपिद्वजः पाण्डवः वाक्यम् आह।
कपिद्वजः पाण्डवः किं वाक्यम् आह?
कपिद्वजः पाण्डवः इदं वाक्यम् आह।
कपिद्वजः पाण्डवः कम् इदं वाक्यम् आह?
कपिद्वजः पाण्डवः हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः किं कृत्वा हृषीकेशम् इदं वाक्यम् आह?
कपिद्वजः पाण्डवः दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः कान् दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह?
कपिद्वजः पाण्डवः धार्तराष्ट्रान् दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः कथंभूतान् धार्तराष्ट्रान् दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह?
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा पुनश्च किं कृत्वा हृषीकेशम् इदं वाक्यम् आह?
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा उद्यम्य हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा किम् उद्यम्य हृषीकेशम् इदं वाक्यम् आह?
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कदा धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह?
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा प्रवृत्ते (सति) धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कस्मिन् प्रवृत्ते धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह?
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य हृषीकेशम् इदं वाक्यम् आह।
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य कदा हृषीकेशम् इदं वाक्यम् आह?
कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह।
कदा कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह?
अथ कपिद्वजः पाण्डवः व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह।
अस्मिन् वाक्ये सम्बोधनपदं किम्?
महीपते
तात्पर्यम्
महीपते! अथ अर्जुनः युद्धसन्नद्धान् कौरवान् अपश्यत्। तदा शस्त्रप्रहारोऽपि आरब्धः। अर्जुनः धनुः उद्यम्य श्रीकृष्णम् एवम् अवदत्।
व्याकरणम्
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥
हृषीकेशं तदा वाक्यमिदमाह महीपते।
सन्धिः
धनुरुद्यम्य
धनुः + उद्यम्य
विसर्गसन्धिः (रेफः)।
हृषीकेशं तदा
हृषीकेशम् + तदा
अनुस्वारसन्धिः।
समासः
महीपते
मह्याः पतिः, तत्सम्बुद्धौ
षष्ठीतत्पुरुषः।
कपिध्वजः
कपिः द्वजे सस्य सः
बहुव्रीहिः।
शस्त्रसम्पाते
शस्त्राणां सम्पातः, तस्मिन्
षष्ठीतत्पुरुषः।
हृषीकेशं
हृषीकाणाम् ईशः
हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान्।हृषीकेशस्ततो विष्णो ख्यातो देवेषु केशव॥ – महाभरतम्
षष्ठीतत्पुरुषः। (हृषीकम् इन्द्रियम्)
कृतन्तः
व्यवस्थितान्
वि + अव् + स्था + क्त (कर्तरि), तान्।
प्रवृत्ते
प्र + वृत् + क्त (कर्तरि), तस्मिन्।
सम्पाते
सम् + पत् + घञ् (भावे), तस्मिन्।
तद्धितान्तः
पाण्डवः
पाण्डु + अण् (अपत्यार्थे) । पाण्डोः अपत्यं पुमान् इति पाण्डवः ।
धार्तराष्ट्रान्
धृतराष्ट्र + अण् (अपत्यार्थे)। धृतराष्ट्रस्य अपत्यानि पुमांसः।